Sukta 7.10
इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम् । आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम् ॥
इन्द्रं॑ नो अग्ने॒ वसु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हन्त॑म् । आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज॑न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा॑रम् ॥
índraṃ no agne vásubhiḥ sajóṣā rudráṃ rudrébhir ā́ vahā bṛhántam | ādityébhiḥ áditiṃ viśvájanyāṃ bṛ́haspátim ṛ́kvabhir viśvá-vāram ||
Bring for us, O Agni, Indra with the Vasus in one joy; bring Rudra with the Rudras, the vast power. With the Adityas bring Aditi, universal mother of wideness, and bring Bṛhaspati with the seers of the Word, the giver of all desirable boons.
इन्द्र॑म् । नः॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ । रु॒द्रम् । रु॒द्रेभिः । आ । व॒ह॒ । बृ॒हन्त॑म् । आ॒दि॒त्येभिः॑ । अदि॑तिम् । वि॒श्वऽज॑न्याम् । बृह॒स्पति॑म् । ऋक्व॑ऽभिः । वि॒श्वऽवा॑रम् ॥इन्द्रम् । नः । अग्ने । वसुभिः । सजोषाः । रुद्रम् । रुद्रेभिः । आ । वह । बृहन्तम् । आदित्येभिः । अदितिम् । विश्वजन्याम् । बृहस्पतिम् । ऋक्वभिः । विश्ववारम् ॥indram | naḥ | agne | vasu-bhiḥ | sa-joṣāḥ | rudram | rudrebhiḥ | ā | vaha | bṛhantam | ādityebhiḥ | aditim | viśva-janyām | bṛhaspatim | ṛkva-bhiḥ | viśva-vāram