Sukta 7.10
अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः । सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम् ॥
अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्ती॑र॒ग्निं य॑न्ति॒ द्रवि॑णं॒ भिक्ष॑माणाः । सु॒सं॒दृशं॑ सु॒प्रती॑कं॒ स्वञ्चं॑ हव्य॒वाह॑मर॒तिं मानु॑षाणाम् ॥
ácchā gíro matáyo deva-yántīr agníṃ yanti dráviṇaṃ bhíkṣamāṇāḥ | su-sandṛ́śaṃ su-pratī́kaṃ sváñcaṃ havya-vā́ham aratíṃ mā́nuṣāṇām ||
Toward him the words and the thoughts that seek the gods go, asking for the substance of plenitude. They go to Agni, fair to behold, of radiant face, self-straight in his movement, the carrier of the offering, the charioteer and guide of human journeys.
अच्छ॑ । गिरः॑ । म॒तयः॑ । दे॒व॒ऽयन्तीः॑ । अ॒ग्निम् । य॒न्ति॒ । द्रवि॑णम् । भिक्ष॑माणाः । सु॒ऽस॒न्दृश॑म् । सु॒ऽप्रती॑कम् । सु॒ऽअञ्च॑म् । ह॒व्य॒ऽवाह॑म् । अ॒र॒तिम् । मानु॑षाणाम् ॥अच्छ । गिरः । मतयः । देवयन्तीः । अग्निम् । यन्ति । द्रविणम् । भिक्षमाणाः । सुसन्दृशम् । सुप्रतीकम् । सुअञ्चम् । हव्यवाहम् । अरतिम् । मानुषाणाम् ॥accha | giraḥ | matayaḥ | deva-yantīḥ | agnim | yanti | draviṇam | bhikṣamāṇāḥ | su-sandṛśam | su-pratīkam | su-añcam | havya-vāham | aratim | mānuṣāṇām