Sukta 6.8
अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुॠग्मियम् । आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः ॥
अ॒पामु॒पस्थे॑ महि॒षा अ॑गृभ्णत॒ विशो॒ राजा॑न॒मुप॑ तस्थुॠ॒ग्मिय॑म् । आ दू॒तो अ॒ग्निम॑भरद्वि॒वस्व॑तो वैश्वान॒रं मा॑त॒रिश्वा॑ परा॒वत॑: ॥
apā́m upásthe mahiṣā́ agṛbhṇata víśo rājā́nam úpa tasthur ṛ́gmiyam | ā́ dūtó agním abharad vivásvato vaiśvānaráṃ mātáriśvā parā́vataḥ ||
In the lap of the Waters the mighty ones seized him; the peoples approached their king, rich in the mantra. As messenger, Mātariśvan brought Agni from Vivasvat—from the far beyond—bringing the hidden flame into the human field of works.
अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षाः । अ॒गृ॒भ्ण॒त॒ । विशः॑ । राजा॑नम् । उप॑ । त॒स्थुः॒ । ऋ॒ग्मिय॑म् । आ । दू॒तः । अ॒ग्निम् । अ॒भ॒र॒त् । वि॒वस्व॑तः । वै॒श्वा॒न॒रम् । मा॒त॒रिश्वा॑ । प॒रा॒ऽवतः॑ ॥अपाम् । उपस्थे । महिषाः । अगृभ्णत । विशः । राजानम् । उप । तस्थुः । ऋग्मियम् । आ । दूतः । अग्निम् । अभरत् । विवस्वतः । वैश्वानरम् । मातरिश्वा । परावतः ॥apām | upa-sthe | mahiṣāḥ | agṛbhṇata | viśaḥ | rājānam | upa | tasthuḥ | ṛgmiyam | ā | dūtaḥ | agnim | abharat | vivasvataḥ | vaiśvānaram | mātariśvā | parāvataḥ