Sukta 6.8
व्यस्तभ्नाद्रोदसी मित्रो अद्भुतोऽन्तर्वावदकृणोज्ज्योतिषा तमः । वि चर्मणीव धिषणे अवर्तयद्वैश्वानरो विश्वमधत्त वृष्ण्यम् ॥
व्य॑स्तभ्ना॒द्रोद॑सी मि॒त्रो अद्भु॑तोऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तम॑: । वि चर्म॑णीव धि॒षणे॑ अवर्तयद्वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्य॑म् ॥
vy àstabhnād ródasī mitró ádbhuto 'ntár-vāvad akṛṇoj jyótiṣā támaḥ | ví carmaṇīva dhiṣáṇe avartayad vaiśvānaráḥ víśvam adhatta vṛ́ṣṇyam ||
He set firm the two worlds, wondrous like Mitra; inwardly he made the darkness by the light—turning the hidden into a field of seeing. As if spreading two skins, he widened the two inspirations; Vaiśvānara established the whole vast force of the Bull within creation.
वि । अ॒स्त॒भ्ना॒त् । रोद॑सी॒ इति॑ । मि॒त्रः । अद्भु॑तः । अ॒न्तः॒ऽवाव॑त् । अ॒कृ॒णो॒त् । ज्योति॑षा । तमः॑ । वि । चर्म॑णीइ॒वेति॒ चर्म॑णीऽइव । धि॒षणे॒ इति॑ । अ॒व॒र्त॒य॒त् । वै॒श्वा॒न॒रः । विश्व॑म् । अ॒ध॒त्त॒ । वृष्ण्य॑म् ॥वि । अस्तभ्नात् । रोदसी इति । मित्रः । अद्भुतः । अन्तःवावत् । अकृणोत् । ज्योतिषा । तमः । वि । चर्मणीइवेति चर्मणीइव । धिषणे इति । अवर्तयत् । वैश्वानरः । विश्वम् । अधत्त । वृष्ण्यम् ॥vi | astabhnāt | rodasī iti | mitraḥ | adbhutaḥ | antaḥ-vāvat | akṛṇot | jyotiṣā | tamaḥ | vi | carmaṇīivet icarmaṇī-iva | dhiṣaṇeiti | avartayat | vaiśvānaraḥ | viśvam | adhatta | vṛṣṇyam