Sukta 6.71
उदू अयाँ उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका । दिवो रोहांस्यरुहत्पृथिव्या अरीरमत्पतयत्कच्चिदभ्वम् ॥
उदू॑ अयाँ उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया॑ सवि॒ता सु॒प्रती॑का । दि॒वो रोहां॑स्यरुहत्पृथि॒व्या अरी॑रमत्प॒तय॒त्कच्चि॒दभ्व॑म् ॥
udū́ ayā́m upavaktéva bāhū́ hiraṇyáyā savitā́ suprátīkā | divó rohā́ṃsy aruhat pṛthivyā́ arī́ramat patáyat kác cid ábhvam ||
Upward he has extended his arms, like one who urges and directs the work; Savitṛ, golden in his forming power and fair in manifestation. He climbs the ascents of heaven from the wideness of earth; he sets all in right motion, flying even through the vast unknown.
उत् । ऊँ॒ इति॑ । अ॒या॒न् । उ॒प॒व॒क्ताऽइ॑व । बा॒हू इति॑ । हि॒र॒न्यया॑ । स॒वि॒ता । सु॒ऽप्रती॑का । दि॒वः । रोहां॑सि । अ॒रु॒ह॒त् । पृ॒थि॒व्याः । अरी॑रमत् । प॒तय॑त् । कत् । चि॒त् । अभ्व॑म् ॥उत् । ऊँ इति । अयान् । उपवक्ताइव । बाहू इति । हिरन्यया । सविता । सुप्रतीका । दिवः । रोहांसि । अरुहत् । पृथिव्याः । अरीरमत् । पतयत् । कत् । चित् । अभ्वम् ॥ut | oṃ iti | ayān | upavaktāiva | bāhū iti | hiranyayā | savitā | su-pratīkā | divaḥ | rohāṃsi | aruhat | pṛthivyāḥ | arīramat | patayat | kat | cit | abhvam