Sukta 6.71
उदु ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषमस्थात् । अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ॥
उदु॒ ष्य दे॒वः स॑वि॒ता दमू॑ना॒ हिर॑ण्यपाणिः प्रतिदो॒षम॑स्थात् । अयो॑हनुर्यज॒तो म॒न्द्रजि॑ह्व॒ आ दा॒शुषे॑ सुवति॒ भूरि॑ वा॒मम् ॥
úd u ṣyá deváḥ savitā́ damū́nā híraṇyapāṇiḥ prátidoṣam asthāt | áyo-hanur yajató mandrájihva ā́ dāśúṣe suvati bhū́ri vāmám ||
Up rises that god Savitar, the dweller in the home; with golden hands he stands at every dusk. With iron jaw, adorable, with a rapturous tongue, he impels toward the giver abundant felicities.
उत् । ऊँ॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । दमू॑नाः । हिर॑ण्यऽपाणिः । प्र॒ति॒ऽदो॒षम् । अ॒स्था॒त् । अयः॑ऽहनुः । य॒ज॒तः । म॒न्द्रऽजि॑ह्वः । आ । दा॒शुषे॑ । सु॒व॒ति॒ । भूरि॑ । वा॒मम् ॥उत् । ऊँ इति । स्यः । देवः । सविता । दमूनाः । हिरण्यपाणिः । प्रतिदोषम् । अस्थात् । अयःहनुः । यजतः । मन्द्रजिह्वः । आ । दाशुषे । सुवति । भूरि । वामम् ॥ut | oṃ iti | syaḥ | devaḥ | savitā | damūnāḥ | hiraṇya-pāṇiḥ | prati-doṣam | asthāt | ayaḥ-hanuḥ | yajataḥ | mandra-jihvaḥ | ā | dāśuṣe | suvati | bhūri | vāmam