Sukta 6.71
वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः । वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम ॥
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाज॑: स्याम ॥
vāmám adyá savitar vāmám u śvó divédive vāmám asmábhyaṃ sāvīḥ | vā́masya hí kṣáyasya deva bhū́rer ayā́ dhiyā́ vāma-bhā́jaḥ syāma ||
The desirable good today, O Savitṛ; the desirable good tomorrow; day by day do thou impel for us the desirable. For of that abundant dwelling of delight, O god, may we become sharers by this going of thought and will.
वा॒मम् । अ॒द्य । स॒वि॒तः॒ । वा॒मम् । ऊँ॒ इति॑ । श्वः । दि॒वेऽदि॑वे । वा॒मम् । अ॒स्मभ्य॑म् । सा॒वीः॒ । वा॒मस्य॑ । हि । क्षय॑स्य । दे॒व॒ । भूरेः॑ । अ॒या । धि॒या । वा॒म॒ऽभाजः॑ । स्या॒म॒ ॥वामम् । अद्य । सवितः । वामम् । ऊँ इति । श्वः । दिवेदिवे । वामम् । अस्मभ्यम् । सावीः । वामस्य । हि । क्षयस्य । देव । भूरेः । अया । धिया । वामभाजः । स्याम ॥vāmam | adya | savitaḥ | vāmam | oṃ iti | śvaḥ | dive--dive | vāmam | asmabhyam | sāvīḥ | vāmasya | hi | kṣayasya | deva | bhūreḥ | ayā | dhiyā | vāma-bhājaḥ | syāma