Sukta 6.71
अदब्धेभिः सवितः पायुभिष्ट्वं शिवेभिरद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नो अघशंस ईशत ॥
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् । हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥
adábdhebhiḥ savitaḥ pāyúbhiṣ ṭváṃ śivébhir adyá pári pāhi no gáyam | híraṇyajihvaḥ suvitā́ya návyase rákṣā mā́kir no aghaśáṃsa īśata ||
O Savitar, with your unfailing guardians, with your benevolent protections, today encompass and guard our life-force. O golden-tongued one, for a new and luminous well-being, protect us—let no ill-wisher gain mastery over us.
अद॑ब्धेभिः । स॒वि॒त॒रिति॑ । प॒युऽभिः॑ । त्वम् । शि॒वेभिः॑ । अ॒द्य । परि॑ । पा॒हि॒ । नः॒ । गय॑म् । हिर॑ण्यऽजिह्वः । सु॒वि॒ताय॑ । नव्य॑से । रक्ष॑ । माकिः॑ । नः॒ । अ॒घऽशं॑सः । ई॒श॒त॒ ॥अदब्धेभिः । सवितरिति । पयुभिः । त्वम् । शिवेभिः । अद्य । परि । पाहि । नः । गयम् । हिरण्यजिह्वः । सुविताय । नव्यसे । रक्ष । माकिः । नः । अघशंसः । ईशत ॥adabdhebhiḥ | savitariti | payu-bhiḥ | tvam | śivebhiḥ | adya | pari | pāhi | naḥ | gayam | hiraṇya-jihvaḥ | suvitāya | navyase | rakṣa | mākiḥ | naḥ | agha-śaṃsaḥ | īśata