Sukta 6.71
देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश्च दावने । यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥
दे॒वस्य॑ व॒यं स॑वि॒तुः सवी॑मनि॒ श्रेष्ठे॑ स्याम॒ वसु॑नश्च दा॒वने॑ । यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ॥
devásya vayáṃ savitúḥ savī́mani śréṣṭhe syāma vásunaś ca dā́vane | yó víśvasya dvipádo yáś cátuṣpado nivéśane prasavé cā́si bhū́manaḥ ||
May we be in the best impulsion of the god Savitar, in the giving of his riches. For you are the vast one who presides over the settling and the sending-forth of all that is two-footed and four-footed.
दे॒वस्य॑ । व॒यम् । स॒वि॒तुः । सवी॑मनि । श्रेष्ठे॑ । स्या॒म॒ । वसु॑नः । च॒ । दा॒वने॑ । यः । विश्व॑स्य । द्वि॒ऽपदः॑ । यः । चतुः॑ऽपदः । नि॒ऽवेश॑ने । प्र॒ऽस॒वे । च॒ । असि॑ । भूम॑नः ॥देवस्य । वयम् । सवितुः । सवीमनि । श्रेष्ठे । स्याम । वसुनः । च । दावने । यः । विश्वस्य । द्विपदः । यः । चतुःपदः । निवेशने । प्रसवे । च । असि । भूमनः ॥devasya | vayam | savituḥ | savīmani | śreṣṭhe | syāma | vasunaḥ | ca | dāvane | yaḥ | viśvasya | dvi-padaḥ | yaḥ | catuḥ-padaḥ | ni-veśane | pra-save | ca | asi | bhūmanaḥ