Sukta 6.71
उदु ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः । घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ॥
उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया॑ बा॒हू अ॑यंस्त॒ सव॑नाय सु॒क्रतु॑: । घृ॒तेन॑ पा॒णी अ॒भि प्रु॑ष्णुते म॒खो युवा॑ सु॒दक्षो॒ रज॑सो॒ विध॑र्मणि ॥
úd u ṣyá deváḥ savitā́ hiraṇyáyā bāhū́ ayaṃsta sávanāya suk rát uḥ | ghṛténa pāṇī́ abhí pruṣṇute makhó yúvā sudákṣo rájaso vídharmaṇi ||
Up rises that god Savitar; with golden arms he has stretched them out for the pressing, the one of luminous will. With ghṛta he moistens his hands; youthful in power, perfectly skilled, he establishes the law in the wide spaces of the worlds.
उत् । ऊँ॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । हि॒र॒ण्यया॑ । बा॒हू इति॑ । अ॒यं॒स्त॒ । सव॑नाय । सु॒ऽक्रतुः॑ । घृ॒तेन॑ । पा॒णी इति॑ । अ॒भि । प्रु॒ष्णु॒ते॒ । म॒खः । युवा॑ । सु॒ऽदक्षः॑ । रज॑सः । विऽध॑र्मणि ॥उत् । ऊँ इति । स्यः । देवः । सविता । हिरण्यया । बाहू इति । अयंस्त । सवनाय । सुक्रतुः । घृतेन । पाणी इति । अभि । प्रुष्णुते । मखः । युवा । सुदक्षः । रजसः । विधर्मणि ॥ut | oṃ iti | syaḥ | devaḥ | savitā | hiraṇyayā | bāhū iti | ayaṃsta | savanāya | su-kratuḥ | ghṛtena | pāṇī iti | abhi | pruṣṇute | makhaḥ | yuvā | su-dakṣaḥ | rajasaḥ | vi-dharmaṇi