Sukta 6.70
मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते । दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यम् ॥
मधु॑ नो॒ द्यावा॑पृथि॒वी मि॑मिक्षतां मधु॒श्चुता॑ मधु॒दुघे॒ मधु॑व्रते । दधा॑ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्य॑म् ॥
mádhu no dyā́vāpṛthivī́ mimikṣatāṃ madhuścútā madhudúghe mádhu-vrate | dádhāne yajñáṃ dráviṇaṃ ca devátā mahí śrávo vā́jam asmḗ suvī́ryam ||
May Heaven and Earth blend for us the sweetness—dripping sweetness, milking sweetness, faithful to the law of sweetness. Upholding the sacrifice and the divine riches, grant to us vast fame, plenitude of force, and a heroic power that grows within.
मधु॑ । नः॒ । द्यावा॑पृथि॒वी इति॑ । मि॒मि॒क्ष॒ता॒म् । म॒धु॒ऽश्चुता॑ । म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे॑ । मधु॑व्रते॒ इति॒ मधु॑ऽव्रते । दधा॑ने॒ इति॑ । य॒ज्ञम् । द्रवि॑णम् । च॒ । दे॒वता॑ । महि॑ । श्रवः॑ । वाज॑म् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् ॥मधु । नः । द्यावापृथिवी इति । मिमिक्षताम् । मधुश्चुता । मधुदुघे इति मधुदुघे । मधुव्रते इति मधुव्रते । दधाने इति । यज्ञम् । द्रविणम् । च । देवता । महि । श्रवः । वाजम् । अस्मे इति । सुवीर्यम् ॥madhu | naḥ | dyāvāpṛthivī iti | mimikṣatām | madhu-ścutā | madhudugheitimadhu-dughe | madhuvrateitimadhu-vrate | dadhāneiti | yajñam | draviṇam | ca | devatā | mahi | śravaḥ | vājam | asme iti | su-vīryam