Sukta 6.70
ऊर्जं नो द्यौश्च पृथिवी च पिन्वतां पिता माता विश्वविदा सुदंससा । संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिमस्मे समिन्वताम् ॥
ऊर्जं॑ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा॑ सु॒दंस॑सा । सं॒र॒रा॒णे रोद॑सी वि॒श्वश॑म्भुवा स॒निं वाजं॑ र॒यिम॒स्मे समि॑न्वताम् ॥
ū́rjaṃ no dyáuś ca pr̥thivī́ ca pinvatāṃ pitā́ mātā́ viśvavídā sudáṃsasā | saṃrarāṇé rodasī́ viśváśambhuvā saníṃ vā́jaṃ rayím asmḗ sám invatām ||
May Heaven and Earth increase in us the sustaining energy: Father and Mother, all-knowing and of good works. Harmoniously joined, the two worlds, universal benefactors, may they together press into us attainment, plenitude of force, and the riches of fullness of being.
ऊर्ज॑म् । नः॒ । द्यौः । च॒ । पृ॒थि॒वी । च॒ । पि॒न्व॒ता॒म् । पि॒ता । मा॒ता । वि॒श्व॒ऽविदा॑ । सु॒ऽदंस॑सा । सं॒र॒रा॒णे इति॑ स॒म्ऽर॒रा॒णे । रोद॑सी॒ इति॑ । वि॒श्वऽश॑म्भुवा । स॒निम् । वाज॑म् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒ता॒म् ॥ऊर्जम् । नः । द्यौः । च । पृथिवी । च । पिन्वताम् । पिता । माता । विश्वविदा । सुदंससा । संरराणे इति सम्रराणे । रोदसी इति । विश्वशम्भुवा । सनिम् । वाजम् । रयिम् । अस्मे इति । सम् । इन्वताम् ॥ūrjam | naḥ | dyauḥ | ca | pṛthivī | ca | pinvatām | pitā | mātā | viśva-vidā | su-daṃsasā | saṃrarāṇe itisam-rarāṇe | rodasī | iti | viśva-śambhuvā | sanim | vājam | rayim | asme iti | sam | invatām