Sukta 6.70
घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा । उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद्विप्रा ईळते सुम्नमिष्टये ॥
घृ॒तेन॒ द्यावा॑पृथि॒वी अ॒भीवृ॑ते घृत॒श्रिया॑ घृत॒पृचा॑ घृता॒वृधा॑ । उ॒र्वी पृ॒थ्वी हो॑तृ॒वूर्ये॑ पु॒रोहि॑ते॒ ते इद्विप्रा॑ ईळते सु॒म्नमि॒ष्टये॑ ॥
ghṛténa dyā́vāpṛthivī́ abhī́vr̥te ghṛtaśríyā ghṛtapŕ̥cā ghṛtāvŕ̥dhā | urvī́ pr̥thvī́ hotṛvū́rye puróhite té íd víprā īḷate sumnám iṣṭáye ||
With ghṛta the Heaven and Earth are wrapped about—splendid with ghṛta, filled with ghṛta, increased by ghṛta. The wide Earth, set in front as the priestly power for the offering, is invoked by the seers: they call for the grace that fulfils the sacrifice.
घृ॒तेन॑ । द्यावा॑पृथि॒वी इति॑ । अ॒भीवृ॑ते॒ इत्य॒भिऽवृ॑ते । घृ॒त॒ऽश्रिया॑ । घृ॒त॒ऽपृचा॑ । घृ॒त॒ऽवृधा॑ । उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । हो॒तृ॒ऽवूर्ये॑ । पु॒रोहि॑ते॒ इति॑ पु॒रःऽहि॑ते । ते इति॑ । इत् । विप्राः॑ । ई॒ळ॒ते॒ । सु॒म्नम् । इ॒ष्टये॑ ॥घृतेन । द्यावापृथिवी इति । अभीवृते इत्यभिवृते । घृतश्रिया । घृतपृचा । घृतवृधा । उर्वी इति । पृथ्वी इति । होतृवूर्ये । पुरोहिते इति पुरःहिते । ते इति । इत् । विप्राः । ईळते । सुम्नम् । इष्टये ॥ghṛtena | dyāvāpṛthivī iti | abhīvṛteity abhi-vṛte | ghṛta-śriyā | ghṛta-pṛcā | ghṛta-vṛdhā | urvī iti | pṛthvī iti | hotṛ-vūrye | purohiteitipuraḥ-hite | te iti | it | viprāḥ | īḷate | sumnam | iṣṭayega