Sukta 6.70
असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते । राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन्मनुर्हितम् ॥
अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि॑व्रते । राज॑न्ती अ॒स्य भुव॑नस्य रोदसी अ॒स्मे रेत॑: सिञ्चतं॒ यन्मनु॑र्हितम् ॥
ásaścantī bhū́ridhāre páyasvatī ghṛtáṃ duhāte sukṛ́te śúci-vrate | rā́jantī asyá bhúvanasya rodasī asmḗ rétaḥ siñcataṃ yán mánur hitám ||
Unfailing, bearing abundant streams, rich in the milk of nourishment, the two (Heaven and Earth) milk out the clarified radiance for the well-doer, for the one of pure vow. Shining over this world, O two firmaments, pour into us that seed of power which Manu has set for the human path.
अस॑श्चन्ती॒ इति॑ । भूरि॑धारे॒ इति॒ भूरि॑ऽधारे । पय॑स्वती॒ इति॑ । घृ॒तम् । दु॒हा॒ते॒ इति॑ । सु॒ऽकृते॑ । शुचि॑व्रते॒ इति॒ शुचि॑ऽव्रते । राज॑न्ती॒ इति॑ । अ॒स्य । भुव॑नस्य । रो॒द॒सी॒ इति॑ । अ॒स्मे इति॑ । रेतः॑ । सि॒ञ्च॒त॒म् । यत् । मनुः॑ऽहितम् ॥असश्चन्ती इति । भूरिधारे इति भूरिधारे । पयस्वती इति । घृतम् । दुहाते इति । सुकृते । शुचिव्रते इति शुचिव्रते । राजन्ती इति । अस्य । भुवनस्य । रोदसी इति । अस्मे इति । रेतः । सिञ्चतम् । यत् । मनुःहितम् ॥asaścantī iti | bhūridhāreitibhūri-dhāre | payasvatī iti | ghṛtam | duhāteiti | su-kṛte | śucivrateitiśuci-vrate | rājantī iti | asya | bhuvanasya | rodasī iti | asme iti | retaḥ | siñcatam | yat | manuḥ-hitam