Sukta 6.70
घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा । द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ॥
ghṛtávatī bhúvanānām abhiśríyorvī́ pr̥thvī́ madhudúghe supéśasā | dyā́vāpṛthivī́ váruṇasya dhármaṇā víṣkabhite ajáre bhū́ri-retasā ||
Full of the clarified light, bearing the splendour of the worlds, the wide Earth and the honey-yielding, fair-formed pair—Heaven and Earth—stand upheld by Varuna’s law; unaging, they are propped apart, rich in creative seed-force.
घृ॒तव॑ती॒ इति॑ घृ॒तऽव॑ती । भुव॑नानाम् । अ॒भि॒ऽश्रिया॑ । उ॒र्वी । पृ॒थ्वी इति॑ । म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे॑ । सु॒ऽपेश॑सा । द्यावा॑पृथि॒वी इति॑ । वरु॑णस्य । धर्म॑णा । विस्क॑भिते॒ इति॒ विऽस्क॑भिते । अ॒जरे॒ इति॑ । भूरि॑ऽरेतसा ॥घृतवती इति घृतवती । भुवनानाम् । अभिश्रिया । उर्वी । पृथ्वी इति । मधुदुघे इति मधुदुघे । सुपेशसा । द्यावापृथिवी इति । वरुणस्य । धर्मणा । विस्कभिते इति विस्कभिते । अजरे इति । भूरिरेतसा ॥ghṛtavatī itighṛta-vatī | bhuvanānām | abhi-śriyā | urvī | pṛthvī iti | madhudugheitimadhu-dughe | su-peśasā | dyāvāpṛthivī iti | varuṇasya | dharmaṇā | viskabhiteitivi-skabhite | ajareiti | bhūri-retasā