Sukta 6.7
नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त । वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥
नाभिं॑ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा॑हा॒वम॒भि सं न॑वन्त । वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां॑ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ॥
nā́bhiṃ yajñā́nāṃ sádanaṃ rayīṇā́ṃ mahā́m āhāváṃ abhí sám navanta | vaiśvānaráṃ rathyám adhvarā́ṇāṃ yajñásya ketúṃ janayanta devā́ḥ ||
The gods fashioned Vaiśvānara as the navel of the sacrifices, the home of plenitudes, the great call of invocation. They brought forth the chariot-course of the journeys of offering, the banner-sign of the sacrifice—its guiding light.
नाभि॑म् । य॒ज्ञाना॑म् । सद॑नम् । र॒यी॒णाम् । म॒हाम् । आ॒ऽहा॒वम् । अ॒भि । सम् । न॒व॒न्त॒ । वै॒श्वा॒न॒रम् । र॒थ्य॑म् । अ॒ध्व॒राणा॑म् । य॒ज्ञस्य॑ । के॒तुम् । ज॒न॒य॒न्त॒ । दे॒वाः ॥नाभिम् । यज्ञानाम् । सदनम् । रयीणाम् । महाम् । आहावम् । अभि । सम् । नवन्त । वैश्वानरम् । रथ्यम् । अध्वराणाम् । यज्ञस्य । केतुम् । जनयन्त । देवाः ॥nābhim | yajñānām | sadanam | rayīṇām | mahām | āhāvam | abhi | sam | navanta | vaiśvānaram | rathyam | adhvarāṇām | yajñasya | ketum | janayanta | devāḥ