Sukta 6.7
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥
मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् । क॒विं स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥
mūrdhā́naṃ divó aratíṃ pṛthivyā́ vaiśvānarám ṛtá ā́ jātám agním | kavíṃ samrā́jam átithiṃ jánānām āsánn ā́ pā́traṃ janayanta devā́ḥ ||
The gods brought to birth Agni Vaiśvānara, born from the Truth—head of heaven and guiding course of earth: the seer, the universal king, the guest of the peoples, the near and ready vessel for the offering within us.
मू॒र्धान॑म् । दि॒वः । अ॒र॒तिम् । पृ॒थि॒व्याः । वै॒श्वा॒न॒रम् । ऋ॒ते । आ । जा॒तम् । अ॒ग्निम् । क॒विम् । स॒म्ऽराजम् । अति॑थिम् । जना॑नाम् । आ॒सन् । आ । पात्र॑म् । ज॒न॒य॒न्त॒ । दे॒वाः ॥मूर्धानम् । दिवः । अरतिम् । पृथिव्याः । वैश्वानरम् । ऋते । आ । जातम् । अग्निम् । कविम् । सम्राजम् । अतिथिम् । जनानाम् । आसन् । आ । पात्रम् । जनयन्त । देवाः ॥mūrdhānam | divaḥ | aratim | pṛthivyāḥ | vaiśvānaram | ṛte | ā | jātam | agnim | kavim | sam-rājam | atithim | janānām | āsan | ā | pātram | janayanta | devāḥ