Sukta 6.7
त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः । वैश्वानर त्वमस्मासु धेहि वसूनि राजन्त्स्पृहयाय्याणि ॥
त्वद्विप्रो॑ जायते वा॒ज्य॑ग्ने॒ त्वद्वी॒रासो॑ अभिमाति॒षाह॑: । वैश्वा॑नर॒ त्वम॒स्मासु॑ धेहि॒ वसू॑नि राजन्त्स्पृह॒याय्या॑णि ॥
tvád vipró jāyate vā́jy agne tvád vīrā́so abhimātiṣā́haḥ | vaiśvānara tvám asmā́su dhehi vásūni rājan spṛhayā́yyāṇi ||
From you, O Agni, is born the inspired seer with the plenitude of force; from you arise the heroic powers that overcome hostile thought. O Vaiśvānara, place within us the desirable riches, O King—treasures we long to embody.
त्वत् । विप्रः॑ । जा॒य॒ते॒ । वा॒जी । अ॒ग्ने॒ । त्वत् । वी॒रासः॑ । अ॒भि॒मा॒ति॒ऽसहः॑ । वैश्वा॑नर । त्वम् । अ॒स्मासु॑ । धे॒हि॒ । वसू॑नि । रा॒ज॒न् । स्पृ॒ह॒याय्या॑णि ॥त्वत् । विप्रः । जायते । वाजी । अग्ने । त्वत् । वीरासः । अभिमातिसहः । वैश्वानर । त्वम् । अस्मासु । धेहि । वसूनि । राजन् । स्पृहयाय्याणि ॥tvat | vipraḥ | jāyate | vājī | agne | tvat | vīrāsaḥ | abhimāti-sāhaḥ | vaiśvānara | tvam | asmāsu | dhehi | vasūni | rājan | spṛhayāyyāṇi