Sukta 6.69
इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् । आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे ॥
इन्द्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथाम् । आ वा॒मन्धां॑सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा॑णि शृणुतं॒ हवं॑ मे ॥
indrā́viṣṇū píbataṃ mádhvo asyá sómasya dasrā jaṭháraṃ pṛṇethām | ā́ vām ándhāṃsi madirā́ṇy agmann úpa brahmā́ṇi śṛṇutaṃ hávaṃ me ||
O Indra and Viṣṇu, drink of this honeyed Soma, O wonder-workers; fill your belly with it. The rapturous essences have come to you—listen closely to the brahman-formulations, hear my call.
इन्द्रा॑विष्णू॒ इति॑ । पिब॑तम् । मध्वः॑ । अ॒स्य । सोम॑स्य । द॒स्रा॒ । ज॒ठर॑म् । पृ॒णे॒था॒म् । आ । वा॒म् । अन्धां॑सि । म॒दि॒राणि॑ । अ॒ग्म॒न् । उप॑ । ब्रह्मा॑णि । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥इन्द्राविष्णू इति । पिबतम् । मध्वः । अस्य । सोमस्य । दस्रा । जठरम् । पृणेथाम् । आ । वाम् । अन्धांसि । मदिराणि । अग्मन् । उप । ब्रह्माणि । शृणुतम् । हवम् । मे ॥indrāviṣṇūiti | pibatam | madhvaḥ | asya | somasya | dasrā | jaṭharam | pṛṇethām | ā | vām | andhāṃsi | madirāṇi | agman | upa | brahmāṇi | śṛṇutam | havam | me