Sukta 6.69
इन्द्राविष्णू तत्पनयाय्यं वां सोमस्य मद उरु चक्रमाथे । अकृणुतमन्तरिक्षं वरीयोऽप्रथतं जीवसे नो रजांसि ॥
इन्द्रा॑विष्णू॒ तत्प॑न॒याय्यं॑ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे । अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे॑ नो॒ रजां॑सि ॥
indrā́viṣṇū tát panayā́yyaṃ vāṃ sómasya máda urú cakramā́the | ákṛṇutam antárikṣaṃ várīyo ’práthataṃ jīvásē no rájāṃsi ||
O Indra and Viṣṇu, in the Soma’s ecstasy you made wide that which is worthy of wonder; you fashioned the mid-world into a greater openness and you spread out the realms for our living.
इन्द्रा॑विष्णू॒ इति॑ । तत् । प॒न॒याय्य॑म् । वा॒म् । सोम॑स्य । मदे॑ । उ॒रु । च॒क्र॒मा॒थे॒ इति॑ । अकृ॑णुतम् । अ॒न्तरि॑क्षम् । वरी॑यः । अप्र॑थतम् । जी॒वसे॑ । नः॒ । रजां॑सि ॥इन्द्राविष्णू इति । तत् । पनयाय्यम् । वाम् । सोमस्य । मदे । उरु । चक्रमाथे इति । अकृणुतम् । अन्तरिक्षम् । वरीयः । अप्रथतम् । जीवसे । नः । रजांसि ॥indrāviṣṇūiti | tat | panayāyyam | vām | somasya | made | uru | cakramātheiti | akṛṇutam | antarikṣam | varīyaḥ | aprathatam | jīvase | naḥ | rajāṃsi