Sukta 6.69
उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः । इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥
उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनो॑: । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् ॥
ubhā jigyathur ná parā́ jayethe ná parā́ jigye kataraś canainóḥ | índraś ca víṣṇo yád ápaspr̥dhethāṃ tredhā́ sahásraṃ ví tád áirayethām ||
Both of you have conquered; neither of you is defeated, nor has either of you been conquered. O Indra and Vishnu, when you contended (in the play of powers), you set in motion and distributed that thousandfold energy in three streams.
उ॒भा । जि॒ग्य॒थुः॒ । न । परा॑ । ज॒ये॒थे॒ इति॑ । न । परा॑ । जि॒ग्ये॒ । क॒त॒रः । च॒न । ए॒नोः॒ । इन्द्रः॑ । च॒ । वि॒ष्णो॒ इति॑ । यत् । अप॑स्पृधेथाम् । त्रे॒धा । स॒हस्र॑म् । वि । तत् । ऐ॒र॒ये॒था॒म् ॥उभा । जिग्यथुः । न । परा । जयेथे इति । न । परा । जिग्ये । कतरः । चन । एनोः । इन्द्रः । च । विष्णो इति । यत् । अपस्पृधेथाम् । त्रेधा । सहस्रम् । वि । तत् । ऐरयेथाम् ॥ubhā | jigyathuḥ | na | parā | jayetheiti | na | parā | jigye | kataraḥ | cana | enoḥ | indraḥ | ca | viṣṇo iti | yat | apasṛdhethām | tredhā | sahasram | vi | tat | airayethām