Sukta 6.69
इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना । सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥
इन्द्रा॑विष्णू मदपती मदाना॒मा सोमं॑ यातं॒ द्रवि॑णो॒ दधा॑ना । सं वा॑मञ्जन्त्व॒क्तुभि॑र्मती॒नां सं स्तोमा॑सः श॒स्यमा॑नास उ॒क्थैः ॥
indrā́viṣṇū madapatī madānā́m ā́ sómaṃ yātaṃ dráviṇo dádhānā | sáṃ vām añjantu aktúbhir matīnā́ṃ sáṃ stómāsaḥ śasyámānāsa ukthaíḥ ||
O Indra and Viṣṇu, lords of the ecstasies, come to the Soma bearing plenitude. May the illuminations of our inspirations anoint you; may our hymns, recited as uplifted utterance, gather and bind you to the sacrifice.
इन्द्रा॑विष्णू॒ इति॑ । म॒द॒प॒ती॒ इति॑ मदऽपती । म॒दा॒ना॒म् । आ । सोम॑म् । या॒त॒म् । द्रवि॑णो॒ इति॑ । दधा॑ना । सम् । वा॒म् । अ॒ञ्ज॒न्तु॒ । अ॒क्तुऽभिः॑ । म॒ती॒नाम् । सम् । स्तोमा॑सः । श॒स्यमा॑नासः । उ॒क्थैः ॥इन्द्राविष्णू इति । मदपती इति मदपती । मदानाम् । आ । सोमम् । यातम् । द्रविणो इति । दधाना । सम् । वाम् । अञ्जन्तु । अक्तुभिः । मतीनाम् । सम् । स्तोमासः । शस्यमानासः । उक्थैः ॥indrāviṣṇūiti | madapatī itimada-patī | madānām | ā | somam | yātam | draviṇo iti | dadhānā | sam | vām | añjantu | aktu-bhiḥ | matīnām | sam | stomāsaḥ | śasyamānāsaḥ | ukthaiḥ