Sukta 6.69
या विश्वासां जनितारा मतीनामिन्द्राविष्णू कलशा सोमधाना । प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥
या विश्वा॑सां जनि॒तारा॑ मती॒नामिन्द्रा॒विष्णू॑ क॒लशा॑ सोम॒धाना॑ । प्र वां॒ गिर॑: श॒स्यमा॑ना अवन्तु॒ प्र स्तोमा॑सो गी॒यमा॑नासो अ॒र्कैः ॥
yā́ viśvāsā́ṃ janitā́rā matīnā́m indrā́viṣṇū kalaśā́ soma-dhānā́ | prá vāṃ gíraḥ śasyámānā avantu prá stómāso gīyámānāso arkáiḥ ||
You who are the begetters of all inspirations, O Indra and Viṣṇu, vessels that hold the Soma—may our uttered words protect and foster you; may our hymns, sung with seer-visions, go forth and strengthen the communion.
या । विश्वा॑साम् । ज॒नि॒तारा॑ । म॒ती॒नाम् । इन्द्रा॒विष्णू॒ इति॑ । क॒लशा॑ । सो॒म॒ऽधाना॑ । प्र । वा॒म् । गिरः॑ । श॒स्यमा॑नाः । अ॒व॒न्तु॒ । प्र । स्तोमा॑सः । गी॒यमा॑नासः । अ॒र्कैः ॥या । विश्वासाम् । जनितारा । मतीनाम् । इन्द्राविष्णू इति । कलशा । सोमधाना । प्र । वाम् । गिरः । शस्यमानाः । अवन्तु । प्र । स्तोमासः । गीयमानासः । अर्कैः ॥yā | viśvāsām | janitārā | matīnām | indrāviṣṇūiti | kalaśā | soma-dhānā | pra | vām | giraḥ | śasyamānāḥ | avantu | pra | stomāsaḥ | gīyamānāsaḥ | arkaiḥ