Sukta 6.69
सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥
सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य । जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभि॑: पा॒रय॑न्ता ॥
saṃ vāṃ kármaṇā sám iṣā́ hinomīndrā́viṣṇū ápasaspāré asyá | juṣéthāṃ yajñáṃ dráviṇaṃ ca dhattam áriṣṭair naḥ pathíbhiḥ pāráyantā ||
With works and with the force of aspiration I press you into union, O Indra and Viṣṇu, at the far shore of this labor. Take delight in the sacrifice and place in us the plenitude; carry us across by paths that cannot be broken.
सम् । वा॒म् । कर्म॑णा । सम् । इ॒षा । हि॒नो॒मि॒ । इन्द्रा॑विष्णू॒ इति॑ । अप॑सः । पा॒रे । अ॒स्य । जु॒षेथा॑म् । य॒ज्ञम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । अरि॑ष्टैः । नः॒ । प॒थिऽभिः॑ । पा॒रय॑न्ता ॥सम् । वाम् । कर्मणा । सम् । इषा । हिनोमि । इन्द्राविष्णू इति । अपसः । पारे । अस्य । जुषेथाम् । यज्ञम् । द्रविणम् । च । धत्तम् । अरिष्टैः । नः । पथिभिः । पारयन्ता ॥sam | vām | karmaṇā | sam | iṣā | hinomi | indrāviṣṇūiti | apasaḥ | pāre | asya | juṣethām | yajñam | draviṇam | ca | dhattam | ariṣṭaiḥ | naḥ | pathi-bhiḥ | pārayantā