Sukta 6.68
प्र सम्राजे बृहते मन्म नु प्रियमर्च देवाय वरुणाय सप्रथः । अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्यजरो न शोचिषा ॥
प्र स॒म्राजे॑ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथ॑: । अ॒यं य उ॒र्वी म॑हि॒ना महि॑व्रत॒: क्रत्वा॑ वि॒भात्य॒जरो॒ न शो॒चिषा॑ ॥
prá samrā́je bृहaté mánma nú priyám arca devā́ya váruṇāya sa-práthaḥ | ayáṃ yá urvī́ mahinā́ mahí-vrataḥ krátvā́ vi-bhā́ti ajáro ná śóciṣā ||
Bring forward now the beloved thought and offer it to Varuṇa, the divine Samrāj, the Wide and Great. He who by greatness upholds the broad world, firm in the vast vow, shines out by the power of his will, ageless as a flame in its radiance.
प्र । स॒म्ऽराजे॑ । बृ॒ह॒ते । मन्म॑ । नु । प्रि॒यम् । अर्च॑ । दे॒वाय॑ । वरु॑णाय । स॒ऽप्रथः॑ । अ॒यम् । यः । उ॒र्वी इति॑ । म॒हि॒ना । महि॑ऽव्रतः । क्रत्वा॑ । वि॒ऽभाति॑ । अ॒जरः॑ । न । शो॒चिषा॑ ॥प्र । सम्राजे । बृहते । मन्म । नु । प्रियम् । अर्च । देवाय । वरुणाय । सप्रथः । अयम् । यः । उर्वी इति । महिना । महिव्रतः । क्रत्वा । विभाति । अजरः । न । शोचिषा ॥pra | sam-rāje | bṛhate | manma | nu | priyam | arca | devāya | varuṇāya | sa-prathaḥ | ayam | yaḥ | urvī iti | mahinā | mahi-vrataḥ | kratvā | vi-bhāti | ajaraḥ | na | śociṣā