Sukta 6.68
नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा । इत्था गृणन्तो महिनस्य शर्धोऽपो न नावा दुरिता तरेम ॥
नू न॑ इन्द्रावरुणा गृणा॒ना पृ॒ङ्क्तं र॒यिं सौ॑श्रव॒साय॑ देवा । इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्धो॒ऽपो न ना॒वा दु॑रि॒ता त॑रेम ॥
nū́ na indrā́varuṇā gṛṇānā́ pṛṅktáṃ rayíṃ sauśrávasāya devā́ | itthā́ gṛṇánto mahínasya śárdho ’pó na nā́vā duritā́ tarema ||
Now, O Indra and Varuṇa, as we voice you in the chant, blend into us the rayi—an opulence of being that becomes good hearing and true renown in the soul, O gods. Thus praising, a company under the Greatness, may we cross beyond the difficult passages, as over waters by a boat.
नु । नः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । गृ॒णा॒ना । पृ॒ङ्क्तम् । र॒यिम् । सौ॒श्र॒व॒साय॑ । दे॒वा॒ । इ॒त्था । गृ॒णन्तः॑ । म॒हिन॑स्य । शर्धः॑ । अ॒पः । न । ना॒वा । दुः॒ऽइ॒ता । त॒रे॒म॒ ॥नु । नः । इन्द्रावरुणा । गृणाना । पृङ्क्तम् । रयिम् । सौश्रवसाय । देवा । इत्था । गृणन्तः । महिनस्य । शर्धः । अपः । न । नावा । दुःइता । तरेम ॥nu | naḥ | indrāvaruṇā | gṛṇānā | pṛṅktam | rayim | sauśravasāya | devā | itthā | gṛṇantaḥ | mahinasya | śardhaḥ | apaḥ | na | nāvā | duḥ-itā | tarema