Sukta 6.68
उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् । येषां शुष्मः पृतनासु साह्वान्प्र सद्यो द्युम्ना तिरते ततुरिः ॥
उ॒त न॑: सुत्रा॒त्रो दे॒वगो॑पाः सू॒रिभ्य॑ इन्द्रावरुणा र॒यिः ष्या॑त् । येषां॒ शुष्म॒: पृत॑नासु सा॒ह्वान्प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु॑रिः ॥
utá naḥ su-trātró deva-gópāḥ sūríbhya indrāvaruṇā rayíḥ syāt | yéṣāṃ śúṣmaḥ pṛ́tanāsu sā́hvān prá sadyó dyumnā́ tiráte táturiḥ ||
And for us, O Indra and Varuṇa—good protectors, guardians of the divine—may there be rayi for the luminous leaders. For those whose vehemence is victorious in the battles, their swift conquering at once carries the splendors across—bringing the light through conflict into fulfilled manifestation.
उ॒त । नः॒ । सु॒ऽत्रा॒तः । दे॒वऽगो॑पाः । सू॒रिऽभ्यः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । र॒यिः । स्या॒त् । येषा॑म् । शुष्मः॑ । पृत॑नासु । सा॒ह्वान् । प्र । स॒द्यः । द्यु॒म्ना । ति॒रते॑ । ततु॑रिः ॥उत । नः । सुत्रातः । देवगोपाः । सूरिभ्यः । इन्द्रावरुणा । रयिः । स्यात् । येषाम् । शुष्मः । पृतनासु । साह्वान् । प्र । सद्यः । द्युम्ना । तिरते । ततुरिः ॥uta | naḥ | su-trātaḥ | deva-gopāḥ | sūri-bhyaḥ | indrāvaruṇā | rayiḥ | syāt | yeṣām | śuṣmaḥ | pṛtanāsu | sāhvān | pra | sadyaḥ | dyumnā | tirate | taturiḥ