Sukta 6.68
यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तं पुरुक्षुम् । अस्मे स इन्द्रावरुणावपि ष्यात्प्र यो भनक्ति वनुषामशस्तीः ॥
यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मन्तं पुरु॒क्षुम् । अ॒स्मे स इ॑न्द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ॥
yáṃ yuváṃ dā́śv adhvarā́ya devā́ rayíṃ dháttho vásumantaṃ puru-kṣúm | asmè sá indrāvaruṇāv ápi syāt prá yó bhanákti vanúṣām áśastīḥ ||
The plenitude you two set for the giver of the offering—O gods—rich in substance and extending far, may that come also to us, O Indra and Varuṇa. Forward may he go who breaks apart the ill-sayings of the seekers—who refuses the falsehood that diminishes the soul’s striving.
यम् । यु॒वम् । दा॒शुऽअ॑ध्वराय । दे॒वा॒ । र॒यिम् । ध॒त्थः । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् । अ॒स्मे इति॑ । सः । इ॒न्द्रा॒व॒रुणौ॒ । अपि॑ । स्या॒त् । प्र । यः । भ॒नक्ति॑ । व॒नुषा॑म् । अश॑स्तीः ॥यम् । युवम् । दाशुअध्वराय । देवा । रयिम् । धत्थः । वसुमन्तम् । पुरुक्षुम् । अस्मे इति । सः । इन्द्रावरुणौ । अपि । स्यात् । प्र । यः । भनक्ति । वनुषाम् । अशस्तीः ॥yam | yuvam | dāśu-adhvarāya | devā | rayim | dhatthaḥ | vasu-mantam | puru-kṣum | asme iti | saḥ | indrāvaruṇau | api | syāt | pra | yaḥ | bhanakti | vanuṣām | aśastīḥ