Sukta 6.68
स इत्सुदानुः स्ववाँ ऋतावेन्द्रा यो वां वरुण दाशति त्मन् । इषा स द्विषस्तरेद्दास्वान्वंसद्रयिं रयिवतश्च जनान् ॥
स इत्सु॒दानु॒: स्ववाँ॑ ऋ॒तावेन्द्रा॒ यो वां॑ वरुण॒ दाश॑ति॒ त्मन् । इ॒षा स द्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिं र॑यि॒वत॑श्च॒ जना॑न् ॥
sá ít su-dā́nuḥ svá-vāṃ ṛtā́vā indrā́ yó vāṃ varuṇa dā́śati tmán | iṣā́ sá dvíṣas taréd dā́svān váṃsad rayíṃ rayi-vátaś ca jánān ||
He indeed is the good-giver, rich in his own strength and a keeper of the Truth—O Indra—who offers to you two, O Varuṇa, from his inmost self. By the divine impulsion he crosses beyond the hostile forces; giving, he wins the plenitude (rayi) and brings increase also to those who are full of that light-wealth.
सः । इत् । सु॒ऽदानुः॑ । स्वऽवा॑न् । ऋ॒तऽवा॑ । इन्द्रा॑ । यः । वा॒म् । व॒रु॒णा॒ दाश॑ति । त्मन् । इ॒षा । सः । द्वि॒षः । त॒रे॒त् । दास्वा॑न् । वंस॑त् । र॒यिम् । र॒यि॒ऽवतः॑ । च॒ । जना॑न् ॥सः । इत् । सुदानुः । स्ववान् । ऋतवा । इन्द्रा । यः । वाम् । वरुणा दाशति । त्मन् । इषा । सः । द्विषः । तरेत् । दास्वान् । वंसत् । रयिम् । रयिवतः । च । जनान् ॥saḥ | it | su-dānuḥ | sva-vān | ṛta-vā | indrā | yaḥ | vām | varuṇā dāśati | tman | iṣā | saḥ | dviṣaḥ | taret | dāsvān | vaṃsat | rayim | rayi-vataḥ | ca | janān