Sukta 6.68
ता गृणीहि नमस्येभिः शूषैः सुम्नेभिरिन्द्रावरुणा चकाना । वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्यन्यो वृजनेषु विप्रः ॥
ता गृ॑णीहि नम॒स्ये॑भिः शू॒षैः सु॒म्नेभि॒रिन्द्रा॒वरु॑णा चका॒ना । वज्रे॑णा॒न्यः शव॑सा॒ हन्ति॑ वृ॒त्रं सिष॑क्त्य॒न्यो वृ॒जने॑षु॒ विप्र॑: ॥
tā́ gṛṇīhi namasyébhíḥ śūṣáiḥ sumnébhír indrā́varuṇā cakānā́ | vájreṇā́nyaḥ śávasā hánti vṛtráṃ síṣakty anyó vṛjánéṣu vípraḥ ||
Sing to those two, Indra and Varuṇa, with acts of reverence, with energies and happy widenesses, delighting in the offering. One smites the obstruction with the thunderbolt by sheer force; the other, the seer, establishes and binds the right workings in the fields of action.
ता । गृ॒णी॒हि॒ । न॒म॒स्ये॑भिः । शू॒षैः । सु॒म्नेभिः । इन्द्रा॒वरु॑णा । च॒का॒ना । वज्रे॑ण । अ॒न्यः । शव॑सा । हन्ति॑ । वृ॒त्रम् । सिस॑क्ति । अ॒न्यः । वृ॒जने॑षु । विप्रः॑ ॥ता । गृणीहि । नमस्येभिः । शूषैः । सुम्नेभिः । इन्द्रावरुणा । चकाना । वज्रेण । अन्यः । शवसा । हन्ति । वृत्रम् । सिसक्ति । अन्यः । वृजनेषु । विप्रः ॥tā | gṛṇīhi | namasyebhiḥ | śūṣaiḥ | sumnebhiḥ | indrāvaruṇā | cakānā | vajreṇa | anyaḥ | śavasā | hanti | vṛtram | sisakti | anyaḥ | vṛjaneṣu | vipraḥ