Sukta 6.68
ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठा ता हि भूतम् । मघोनां मंहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना ॥
ता हि श्रेष्ठा॑ दे॒वता॑ता तु॒जा शूरा॑णां॒ शवि॑ष्ठा॒ ता हि भू॒तम् । म॒घोनां॒ मंहि॑ष्ठा तुवि॒शुष्म॑ ऋ॒तेन॑ वृत्र॒तुरा॒ सर्व॑सेना ॥
tā́ hí śréṣṭhā deva-tā́tā tujā́ śūrā́ṇāṃ śáviṣṭhā tā́ hí bhūtám | maghónāṃ máṃhiṣṭhā tuvi-śúṣma ṛténa vṛtra-túrā sárva-senā ||
These two are indeed the best as divine parents, swift, most forceful among the heroic energies. They are the greatest wideners for the givers, of vast impelling power; by the Truth they are slayers of obstruction, possessing every host of force.
ता । हि । श्रेष्ठा॑ । दे॒वऽता॑ता । तु॒जा । शूरा॑णाम् । शवि॑ष्ठा । ता । हि । भू॒तम् । म॒घोना॑म् । मंहि॑ष्ठा । तु॒वि॒ऽशुष्मा॑ । ऋ॒तेन॑ । वृ॒त्र॒ऽतुरा॑ । सर्व॑ऽसेना ॥ता । हि । श्रेष्ठा । देवताता । तुजा । शूराणाम् । शविष्ठा । ता । हि । भूतम् । मघोनाम् । मंहिष्ठा । तुविशुष्मा । ऋतेन । वृत्रतुरा । सर्वसेना ॥tā | hi | śreṣṭhā | deva-tātā | tujā | śūrāṇām | śaviṣṭhā | tā | hi | bhūtam | maghonām | maṃhiṣṭhā | tuvi-śuṣmā | ṛtena | vṛtra-turā | sarva-senā