Sukta 6.68
श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद्वृक्तबर्हिषो यजध्यै । आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत् ॥
श्रु॒ष्टी वां॑ य॒ज्ञ उद्य॑तः स॒जोषा॑ मनु॒ष्वद्वृ॒क्तब॑र्हिषो॒ यज॑ध्यै । आ य इन्द्रा॒वरु॑णावि॒षे अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ॑व॒वर्त॑त् ॥
śruṣṭī́ vā́m yajñá údyataḥ sajóṣā manuṣvád vṛktábarhiṣo yájadhyai | ā́ ya indrā́varuṇāv íṣe adyá mahé sumnā́ya mahá āvavártat ||
Ready is the sacrifice for you, harmonious in its movement, with the strewn seat prepared in the human way, to adore: it has turned toward you, O Indra and Varuṇa, today for the great impulsion and for the great delight of grace.
श्रु॒ष्टी । वा॒म् । य॒ज्ञः । उत्ऽय॑तः । स॒ऽजोषाः॑ । म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषः । यज॑ध्यै । आ । यः । इन्द्रा॒वरु॑णौ । इ॒षे । अ॒द्य । म॒हे । सु॒म्नाय॑ । म॒हे । आ॑ऽव॒वर्त॑त् ॥श्रुष्टी । वाम् । यज्ञः । उत्यतः । सजोषाः । मनुष्वत् । वृक्तबर्हिषः । यजध्यै । आ । यः । इन्द्रावरुणौ । इषे । अद्य । महे । सुम्नाय । महे । आववर्तत् ॥śruṣṭī | vām | yajñaḥ | ut-yataḥ | sa-joṣāḥ | manuṣvat | vṛkta-barhiṣaḥ | yajadhyai | ā | yaḥ | indrāvaruṇau | iṣe | adya | mahe | sumnāya | mahe | āvavartat