Sukta 6.66
प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् । ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥
प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् । ये सहां॑सि॒ सह॑सा॒ सह॑न्ते॒ रेज॑ते अग्ने पृथि॒वी म॒खेभ्य॑: ॥
prá citrám arkáṃ gṛṇaté turā́ya mārútāya svátavase bharadhvam | yé sahā́ṃsi sáhasā sáhante réjate agne pṛthivī́ makhébhyaḥ ||
Bring forward the bright hymn for the swift, for the Marut-power of self-might. They who by force endure the resistances—O Agni, the Earth trembles at their sacrifices.
प्र । चि॒त्रम् । अ॒र्कम् । गृ॒ण॒ते । तु॒राय॑ । मारु॑ताय । स्वऽत॑वसे । भ॒र॒ध्व॒म् । ये । सहां॑सि । सह॑सा । सह॑न्ते । रेज॑ते । अ॒ग्ने॒ । पृ॒थि॒वी । म॒खेभ्यः॑ ॥प्र । चित्रम् । अर्कम् । गृणते । तुराय । मारुताय । स्वतवसे । भरध्वम् । ये । सहांसि । सहसा । सहन्ते । रेजते । अग्ने । पृथिवी । मखेभ्यः ॥pra | citram | arkam | gṛṇate | turāya | mārutāya | sva-tavase | bharadhvam | ye | sahāṃsi | sahasā | sahante | rejate | agne | pṛthivī | makhebhyaḥ