Sukta 6.66
अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद्यमजत्यरथीः । अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन् ॥
अ॒ने॒नो वो॑ मरुतो॒ यामो॑ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः । अ॒न॒व॒सो अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या॑ याति॒ साध॑न् ॥
anéno vo maruto yā́mo astv anaśváś cid yám ájati arathī́ḥ | anaváso anabhīśū́ rajastū́r ví ródasī pathyā́ yāti sā́dhan ||
May your course be unbroken, O Maruts—though horseless, it drives, though without chariot. Without reins, without lash, the traverser of the midspace goes; it makes a path between the two worlds, accomplishing its work.
अ॒ने॒नः । वः॒ । म॒रु॒तः॒ । यामः॑ । अ॒स्तु॒ । अ॒न॒श्वः । चि॒त् । यम् । अज॑ति । अर॑थीः । अ॒न॒व॒सः । अ॒न॒भी॒शुः । र॒जः॒ऽतूः । वि । रोद॑सी॒ इति॑ । प॒थ्याः॑ । या॒ति॒ । साध॑न् ॥अनेनः । वः । मरुतः । यामः । अस्तु । अनश्वः । चित् । यम् । अजति । अरथीः । अनवसः । अनभीशुः । रजःतूः । वि । रोदसी इति । पथ्याः । याति । साधन् ॥anenaḥ | vaḥ | marutaḥ | yāmaḥ | astu | anaśvaḥ | cit | yam | ajati | arathīḥ | anavasaḥ | anabhīśuḥ | rajaḥ-tūḥ | vi | rodasī iti | pathyāḥ | yāti | sādhan