Sukta 6.66
त इदुग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके । अध स्मैषु रोदसी स्वशोचिरामवत्सु तस्थौ न रोकः ॥
त इदु॒ग्राः शव॑सा धृ॒ष्णुषे॑णा उ॒भे यु॑जन्त॒ रोद॑सी सु॒मेके॑ । अध॑ स्मैषु रोद॒सी स्वशो॑चि॒राम॑वत्सु तस्थौ॒ न रोक॑: ॥
tá id ugrā́ḥ śávasā dhṛṣṇúsēṇā ubhé yújanta ródasī suméke | ádha smaíṣu ródasī sváśocir ā́ amavátsu tasthau ná rókaḥ ||
These fierce ones, with strength, with daring hosts, yoke the two worlds, well-joined. Then among these two worlds the self-luminous splendour takes its stand in the mighty ones, like a bright dwelling.
ते । इत् । उ॒ग्राः । शव॑सा । धृ॒ष्णुऽसे॑नाः । उ॒भे इति॑ । यु॒ज॒न्त॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । अध॑ । स्म॒ । ए॒षु॒ । रो॒द॒सी । स्वऽशो॑चिः । आ । अम॑वत्ऽसु । त॒स्थौ॒ । न । रोकः॑ ॥ते । इत् । उग्राः । शवसा । धृष्णुसेनाः । उभे इति । युजन्त । रोदसी इति । सुमेके इति सुमेके । अध । स्म । एषु । रोदसी । स्वशोचिः । आ । अमवत्सु । तस्थौ । न । रोकः ॥te | it | ugrāḥ | śavasā | dhṛṣṇu-senāḥ | ubhe iti | yujanta | rodasī iti | sumeke itisu-meke | adha | sma | eṣu | rodasī | sva-śociḥ | ā | amavat-su | tasthau | na | rokaḥ