Sukta 6.66
मक्षू न येषु दोहसे चिदया आ नाम धृष्णु मारुतं दधानाः । न ये स्तौना अयासो मह्ना नू चित्सुदानुरव यासदुग्रान् ॥
म॒क्षू न येषु॑ दो॒हसे॑ चिद॒या आ नाम॑ धृ॒ष्णु मारु॑तं॒ दधा॑नाः । न ये स्तौ॒ना अ॒यासो॑ म॒ह्ना नू चि॑त्सु॒दानु॒रव॑ यासदु॒ग्रान् ॥
makṣū́ ná yéṣu dóhase cid ayā́ ā́ nā́ma dhṛ́ṣṇu mārútam dádhānāḥ | ná yé staunā́ ayā́so mahnā́ nū́ cit sudā́nur áva yāsad ugrā́n ||
Swiftly, among whom even for the milking there is no going astray, they hold the impetuous Marut-force in its very name. They are not weak in their praise, not lacking by greatness; even the generous giver bows down before the fierce ones.
म॒क्षु । न । येषु॑ । दो॒हसे॑ । चि॒त् । अ॒याः । आ । नाम॑ । घृ॒ष्णु । मारु॑तम् । दधा॑नाः । न । ये । स्तौ॒नाः । अ॒यासः॑ । म॒ह्ना । नु । चि॒त् । सु॒ऽदानुः॑ । अव॑ । या॒स॒त् । उ॒ग्रान् ॥मक्षु । न । येषु । दोहसे । चित् । अयाः । आ । नाम । घृष्णु । मारुतम् । दधानाः । न । ये । स्तौनाः । अयासः । मह्ना । नु । चित् । सुदानुः । अव । यासत् । उग्रान् ॥makṣu | na | yeṣu | dohase | cit | ayāḥ | ā | nāma | ghṛṣṇu | mārutam | dadhānāḥ | na | ye | staunāḥ | ayāsaḥ | mahnā | nu | cit | su-dānuḥ | ava | yāsat | ugrān