Sukta 6.66
न य ईषन्ते जनुषोऽया न्वन्तः सन्तोऽवद्यानि पुनानाः । निर्यद्दुह्रे शुचयोऽनु जोषमनु श्रिया तन्वमुक्षमाणाः ॥
न य ईष॑न्ते ज॒नुषोऽया॒ न्व१॒॑न्तः सन्तो॑ऽव॒द्यानि॑ पुना॒नाः । निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा॑णाः ॥
ná yá ī́ṣante jánuṣo ayā́ nvàntaḥ sántaḥ avadyā́ni punānā́ḥ | nír yád duhré śúcayo ánu jóṣam ánu śríyā tanvàm ukṣámāṇāḥ ||
They do not falter from their birth nor turn aside; being, they cleanse away what is blameworthy. When the pure ones milk forth, they do it in glad acceptance; they pour upon their own body the splendour, increasing it.
न । ये । ईष॑न्ते । ज॒नुषः॑ । अया॑ । नु । अ॒न्तरिति॑ । सन्तः॑ । अ॒व॒द्यानि॑ । पु॒ना॒नाः । निः । यत् । दु॒ह्रे । शुच॑यः । अनु॑ । जोष॑म् । अनु॑ । शृइ॒या । त॒न्व॑म् । उ॒क्षमा॑णाः ॥न । ये । ईषन्ते । जनुषः । अया । नु । अन्तरिति । सन्तः । अवद्यानि । पुनानाः । निः । यत् । दुह्रे । शुचयः । अनु । जोषम् । अनु । शृइया । तन्वम् । उक्षमाणाः ॥na | ye | īṣante | januṣaḥ | ayā | nu | antariti | santaḥ | avadyāni | punānāḥ | n iḥ | yat | duhre | śucayaḥ | anu | joṣam | anu | śṛiyā | tanvam | ukṣamāṇāḥ