Sukta 6.66
रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा याँश्चो नु दाधृविर्भरध्यै । विदे हि माता महो मही षा सेत्पृश्निः सुभ्वे गर्भमाधात् ॥
रु॒द्रस्य॒ ये मी॒ळ्हुष॒: सन्ति॑ पु॒त्रा याँश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै । वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्पृश्नि॑: सु॒भ्वे॒३॒॑ गर्भ॒माधा॑त् ॥
rudrásya yé mīḷhúṣaḥ sánti putrā́ yā́ṃś co nú dā́dhṛvir bháradhyai | vidé hí mātā́ mahó mahī́ ṣā́ sét pṛ́śniḥ subhvè gárbham ā́dhāt ||
Those who are Rudra’s sons, givers of rich increase—whom now Dādhṛvi brings forward for our bearing—truly their Mother is known, the Vast, the Greatness; Pṛśni, indeed, set the embryo in the fair womb.
रु॒द्रस्य॑ । ये । मी॒ळ्हुषः॑ । सन्ति॑ । पु॒त्राः । यान् । चो॒ इति॑ । नु । दाधृ॑विः । भर॑ध्यै । वि॒दे । हि । मा॒ता । म॒हः । म॒ही । सा । सा । इत् । पृश्निः॑ । सु॒ऽभ्वे॑ । गर्भ॑म् । आ । अ॒धा॒त् ॥रुद्रस्य । ये । मीळ्हुषः । सन्ति । पुत्राः । यान् । चो इति । नु । दाधृविः । भरध्यै । विदे । हि । माता । महः । मही । सा । सा । इत् । पृश्निः । सुभ्वे । गर्भम् । आ । अधात् ॥rudrasya | ye | mīḷhuṣaḥ | santi | putrāḥ | yān | co iti | nu | dādhṛviḥ | bharadhyai | vide | hi | mātā | mahaḥ | mahī | sā | sā | it | pṛśniḥ | su-bhve | garbham | ā | adhāt