Sukta 6.66
ये अग्नयो न शोशुचन्निधाना द्विर्यत्त्रिर्मरुतो वावृधन्त । अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश्च भूवन् ॥
ये अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो॑ वावृ॒धन्त॑ । अ॒रे॒णवो॑ हिर॒ण्यया॑स एषां सा॒कं नृ॒म्णैः पौंस्ये॑भिश्च भूवन् ॥
yé agnáyo ná śośucann idhānā́ dvír yát trír marúto vāvṛdhánta | aréṇavo hiraṇyā́yāsa eṣāṃ sā́kaṃ nṛmnā́iḥ paúṃsyebhiś ca bhūvan ||
They blaze like fires when kindled—those Maruts—growing twice, growing thrice. Stainless they are, golden in their sheen; together with manly mights and virile powers they come into being and stand.
ये । अ॒ग्नयः॑ । न । शोशु॑चन् । इ॒धा॒नाः । द्विः । यत् । त्रिः । म॒रुतः॑ । व॒वृ॒धन्त॑ । अ॒रे॒णवः॑ । हि॒र॒ण्यया॑सः । ए॒षा॒म् । सा॒कम् । नृ॒म्णैः । पौंस्ये॑भिः । च॒ । भू॒व॒न् ॥ये । अग्नयः । न । शोशुचन् । इधानाः । द्विः । यत् । त्रिः । मरुतः । ववृधन्त । अरेणवः । हिरण्ययासः । एषाम् । साकम् । नृम्णैः । पौंस्येभिः । च । भूवन् ॥ye | agnayaḥ | na | śośucan | idhānāḥ | dviḥ | yat | triḥ | marutaḥ | vavṛdhanta | areṇavaḥ | hiraṇyayāsaḥ | eṣām | sākam | nṛmṇaiḥ | paiṃsyebhiḥ | ca | bhūvan