Sukta 6.66
वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम् । मर्तेष्वन्यद्दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः ॥
वपु॒र्नु तच्चि॑कि॒तुषे॑ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानम् । मर्ते॑ष्व॒न्यद्दो॒हसे॑ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूध॑: ॥
vápur nu tát cikituṣé cid astu samānáṃ nā́ma dhénu pátyamānam | márteṣv anyád dóhase pīpā́ya sakṛ́c chukráṃ duduhe pṛ́śnir ū́dhaḥ ||
Let that form indeed be known even to the knower: one and the same in name, the nurturing Cow that rules. But among mortals she swells for another milking; once she has milked out the bright essence—Pṛśni, the mother, her udder of abundance.
वपुः॑ । नु । तत् । चि॒कि॒तुषे॑ । चि॒त् । अ॒स्तु॒ । स॒मा॒नम् । नाम॑ । धे॒नु । पत्य॑मानम् । मर्ते॑षु । अ॒न्यत् । दो॒हसे॑ । पी॒पाय॑ । स॒कृत् । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥वपुः । नु । तत् । चिकितुषे । चित् । अस्तु । समानम् । नाम । धेनु । पत्यमानम् । मर्तेषु । अन्यत् । दोहसे । पीपाय । सकृत् । शुक्रम् । दुदुहे । पृश्निः । ऊधः ॥vapuḥ | nu | tat | cikituṣe | cit | astu | samānam | nāma | dhenu | patyamānam | marteṣu | anyat | dohase | pīpāya | sakṛt | śukram | duduhe | pṛśniḥ | ūdhaḥ