Sukta 6.65
इदा हि त उषो अद्रिसानो गोत्रा गवामङ्गिरसो गृणन्ति । व्यर्केण बिभिदुर्ब्रह्मणा च सत्या नृणामभवद्देवहूतिः ॥
इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑ । व्य१॒॑र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू॑तिः ॥
idā́ hí te uṣo adrisāno gotrā́ gavā́m áṅgiraso gṛṇanti | vyàrkeṇa bibhidúr bráhmaṇā ca satyā́ nr̥ṇā́m abhavad deváhūtiḥ ||
For now, O Dawn, the Angirasas sing to thee, O stone-pressing ones; (they sing) of the cow-pens of the Rays. With the hymn and with the sacred word they broke them open; true for men became the call and coming of the gods.
इ॒दा । हि । ते॒ । उ॒षः॒ । अ॒द्रि॒सा॒नो॒ इत्य॑द्रिऽसानो । गो॒त्रा । गवा॑म् । अङ्गि॑रसः । गृ॒णन्ति॑ । वि । अ॒र्केण॑ । बि॒भि॒दुः॒ । ब्रह्म॑णा । च॒ । स॒त्या । नृ॒णाम् । अ॒भ॒व॒त् । दे॒वऽहू॑तिः ॥इदा । हि । ते । उषः । अद्रिसानो इत्यद्रिसानो । गोत्रा । गवाम् । अङ्गिरसः । गृणन्ति । वि । अर्केण । बिभिदुः । ब्रह्मणा । च । सत्या । नृणाम् । अभवत् । देवहूतिः ॥idā | hi | te | uṣaḥ | adrisāno ity adri-sāno | gotrā | gavām | aṅgirasaḥ | gṛṇanti | vi | arkeṇa | bibhiduḥ | brahmaṇā | ca | satyā | nṛṇām | abhavat | deva-hūtiḥ