Sukta 6.65
इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः । इदा विप्राय जरते यदुक्था नि ष्म मावते वहथा पुरा चित् ॥
इ॒दा हि वो॑ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः । इ॒दा विप्रा॑य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ॥
idā́ hí vo vidhaté rátnam ástīdā́ vīrā́ya dāśúṣa uṣāsaḥ | idā́ víprāya járate yád ukthā́ ní ṣmá mā́vate vahathā purā́ cit ||
For now indeed you have the treasure for the one who does the work; now, O Dawns, for the heroic giver. Now for the inspired singer who ages, when he has hymns—surely you have carried (your gifts) even before to the one who strives.
इ॒दा । हि । वः॒ । वि॒ध॒ते । रत्न॑म् । अस्ति॑ । इ॒दा । वी॒राय॑ । दाशुषे॑ । उ॒ष॒सः॒ । इ॒दा । विप्रा॑य । जर॑ते । यत् । उ॒क्था । नि । स्म॒ । माऽव॑ते । व॒ह॒थ॒ । पु॒रा । चि॒त् ॥इदा । हि । वः । विधते । रत्नम् । अस्ति । इदा । वीराय । दाशुषे । उषसः । इदा । विप्राय । जरते । यत् । उक्था । नि । स्म । मावते । वहथ । पुरा । चित् ॥idā | hi | vaḥ | vidhate | ratnam | asti | idā | vīrāya | dāśuṣe | uṣasaḥ | idā | viprāya | jarate | yat | ukthā | ni | sma | māvate | vahatha | purā | cit