Sukta 6.65
श्रवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय । मघोनीर्वीरवत्पत्यमाना अवो धात विधते रत्नमद्य ॥
श्रवो॒ वाज॒मिष॒मूर्जं॒ वह॑न्ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या॑य । म॒घोनी॑र्वी॒रव॒त्पत्य॑माना॒ अवो॑ धात विध॒ते रत्न॑म॒द्य ॥
śrávo vā́jam íṣam ū́rjaṃ váhantīr ní dāśúṣa uṣaso mártyāya | maghónīr vīrávat pátyamānā ávo dhāta vidhaté rátnam adyá ||
Bearing fame, plenitude of force, impulsion and energy, O Dawns, lay them down for the mortal who offers. O bounteous ones, seeking a heroic increase, set today protection and the treasure for the one who does the work (of sacrifice).
श्रवः॑ । वाज॑म् । इष॑म् । ऊर्ज॑म् । वह॑न्तीः । नि । दा॒शुषे॑ । उ॒ष॒सः॒ । मर्त्या॑य । म॒घोनीः॑ । वी॒रऽव॑त् । पत्य॑मानाः । अवः॑ । धा॒त॒ । वि॒ध॒ते । रत्न॑म् । अ॒द्य ॥श्रवः । वाजम् । इषम् । ऊर्जम् । वहन्तीः । नि । दाशुषे । उषसः । मर्त्याय । मघोनीः । वीरवत् । पत्यमानाः । अवः । धात । विधते । रत्नम् । अद्य ॥śravaḥ | vājam | iṣam | ūrjam | vahantīḥ | ni | dāśuṣe | uṣasaḥ | martyāya | maghonīḥ | vīra-vat | patyamānāḥ | avaḥ | dhāta | vidhate | ratnam | adya