Sukta 6.65
वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः । अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः ॥
वि तद्य॑युररुण॒युग्भि॒रश्वै॑श्चि॒त्रं भा॑न्त्यु॒षस॑श्च॒न्द्रर॑थाः । अग्रं॑ य॒ज्ञस्य॑ बृह॒तो नय॑न्ती॒र्वि ता बा॑धन्ते॒ तम॒ ऊर्म्या॑याः ॥
ví tád yayur aruṇayúgbhir áśvaiś citráṃ bhānty uṣásaś candrárathāḥ | ágraṃ yajñásya br̥ható náyantīr ví tā́ bādhante táma ūrmyā́yāḥ ||
They have gone forth with horses yoked to the ruddy light; the Dawns, with their shining chariots, blaze in varied splendour. Leading the front of the vast sacrifice, they drive away the darkness that rises like a wave.
वि । तत् । य॒युः॒ । अ॒रु॒ण॒युक्ऽभिः॑ । अश्वैः॑ । चि॒त्रम् । भा॒न्ति॒ । उ॒षसः॑ । च॒न्द्रऽर॑थाः । अग्र॑म् । य॒ज्ञस्य॑ । बृ॒ह॒तः । नय॑न्तीः । वि । ताः । बा॒ध॒न्ते॒ । तमः॑ । ऊर्म्या॑याः ॥वि । तत् । ययुः । अरुणयुक्भिः । अश्वैः । चित्रम् । भान्ति । उषसः । चन्द्ररथाः । अग्रम् । यज्ञस्य । बृहतः । नयन्तीः । वि । ताः । बाधन्ते । तमः । ऊर्म्यायाः ॥vi | tat | yayuḥ | aruṇayuk-bhiḥ | aśvaiḥ | citram | bhānti | uṣasaḥ | candra-rathāḥ | agram | yajñasya | bṛhataḥ | nayantīḥ | vi | tāḥ | bādhante | tamaḥ | ūrmyāyāḥ