Sukta 6.65
एषा स्या नो दुहिता दिवोजाः क्षितीरुच्छन्ती मानुषीरजीगः । या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून् ॥
ए॒षा स्या नो॑ दुहि॒ता दि॑वो॒जाः क्षि॒तीरु॒च्छन्ती॒ मानु॑षीरजीगः । या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा॑यि ति॒रस्तम॑सश्चिद॒क्तून् ॥
eṣā́ syā́ no duhitā́ divojā́ḥ kṣitī́r ucchántī mā́nuṣīr ajīgar | yā́ bhānúnā rúśatā rā́myāsv ajñā́yi tirás támasaś cid aktū́n ||
This is she—our Heaven-born Daughter—rising, she has awakened the human habitations. She who, with her shining beam in the beautiful fields, is born beyond even the nights of darkness.
ए॒षा । स्या । नः॒ । दु॒हि॒ता । दि॒वः॒ऽजाः । क्षि॒तीः । उ॒च्छन्ती॑ । मानु॑षीः । अ॒जी॒ग॒रिति॑ । या । भा॒नुना॑ । रुश॑ता । रा॒म्यासु॑ । अज्ञा॑यि । ति॒रः । तम॑सः । चि॒त् । अ॒क्तून् ॥एषा । स्या । नः । दुहिता । दिवःजाः । क्षितीः । उच्छन्ती । मानुषीः । अजीगरिति । या । भानुना । रुशता । राम्यासु । अज्ञायि । तिरः । तमसः । चित् । अक्तून् ॥eṣā | syā | naḥ | duhitā | divaḥ-jāḥ | kṣitīḥ | ucchantī | mānuṣīḥ | ajīgariti | yā | bhānunā | ruśatā | rāmyāsu | ajñāyi | tiraḥ | tamasaḥ | cit | aktūn