Sukta 6.64
सा वह योक्षभिरवातोषो वरं वहसि जोषमनु । त्वं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः ॥
सा व॑ह॒ योक्षभि॒रवा॒तोषो॒ वरं॒ वह॑सि॒ जोष॒मनु॑ । त्वं दि॑वो दुहित॒र्या ह॑ दे॒वी पू॒र्वहू॑तौ मं॒हना॑ दर्श॒ता भू॑: ॥
sā́ vaha yókṣabhir avā́toṣo váraṃ váhasi jóṣam ánu | tváṃ divó duhitár yā́ ha devī pū́rvahūtau maṃhánā darśatā́ bhūḥ ||
Bring her hither with thy steeds, O Dawn; thou carriest the choice boon in accordance with delight. Thou art the Daughter of Heaven, the goddess who, invoked from of old, becomes bountiful and visible to our seeing.
सा । आ । व॒ह॒ । या । उ॒क्षऽभिः॑ । अवा॑ता । उषः॑ । वर॑म् । वह॑सि । जोष॑म् । अनु॑ । त्वम् । दि॒वः॒ । दु॒हि॒तः॒ । या । ह॒ । दे॒वी । पू॒र्वऽहू॑तौ । मं॒हना॑ । द॒र्श॒ता । भूः॒ ॥सा । आ । वह । या । उक्षभिः । अवाता । उषः । वरम् । वहसि । जोषम् । अनु । त्वम् । दिवः । दुहितः । या । ह । देवी । पूर्वहूतौ । मंहना । दर्शता । भूः ॥sā | ā | vaha | yā | ukṣa-bhiḥ | avātā | uṣaḥ | varam | vahasi | joṣam | anu | tvam | divaḥ | duhitaḥ | yā | ha | devī | pūrva-hūtau | maṃhanā | darśatā | bhūḥ