Sukta 6.64
सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि स्वभानो । सा न आ वह पृथुयामन्नृष्वे रयिं दिवो दुहितरिषयध्यै ॥
सु॒गोत ते॑ सु॒पथा॒ पर्व॑तेष्ववा॒ते अ॒पस्त॑रसि स्वभानो । सा न॒ आ व॑ह पृथुयामन्नृष्वे र॒यिं दि॑वो दुहितरिष॒यध्यै॑ ॥
sugóta te supáthā párvateṣv avā́te apás tarasi svabhāno | sā́ na ā́ vaha pr̥thuyāman nr̥ṣve rayím divó duhitariṣayádhyai ||
Fair-going are thy paths, good are thy roads even on the mountains; self-luminous, thou passest over the waters and the winds. Do thou then bring to us, O wide-moving and lofty one, the rayi—the fullness from Heaven’s Daughter—for our increase and impulsion.
सु॒ऽगा । उ॒त । ते॒ । सु॒ऽपथा॑ । पर्व॑तेषु । अ॒वा॒ते । अ॒पः । त॒र॒सि॒ । स्व॒भा॒नो॒ इति॑ स्वऽभानो । सा । नः॒ । आ । व॒ह॒ । पृ॒थु॒ऽया॒म॒न् । ऋ॒ष्वे॒ । र॒यिम् । दि॒वः॒ । दु॒हि॒तः॒ । इ॒ष॒यध्यै॑ ॥सुगा । उत । ते । सुपथा । पर्वतेषु । अवाते । अपः । तरसि । स्वभानो इति स्वभानो । सा । नः । आ । वह । पृथुयामन् । ऋष्वे । रयिम् । दिवः । दुहितः । इषयध्यै ॥su-gā | uta | te | su-pathā | parvateṣu | avāte | apaḥ | tarasi | svabhāno itisva-bhāno | sā | naḥ | ā | vaha | pṛthu-yāman | ṛṣve | rayim | divaḥ | duhitaḥ | iṣayadhyai