Sukta 6.64
उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ । अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥
उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ । अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥
útte váyaś cid vasatér apaptan nárāś ca yé pitubhā́jo vyùṣṭau | amā́ saté vahasi bhū́ri vāmám uṣo devi dāśúṣe mártyāya ||
At thy uprising even the birds have flown forth from their dwelling, and men who share the food (of life) have stirred at the dawning. Present here, thou bearest abundant delight and good for the mortal who gives (offers) to thee, O goddess Dawn.
उत् । ते॒ । वयः॑ । चि॒त् । व॒स॒तेः । अ॒प॒प्त॒न् । नरः॑ । च॒ । ये । पि॒तु॒ऽभाजः॑ । विऽउ॑ष्टौ । अ॒मा । स॒ते । व॒ह॒सि॒ । भूरि॑ । वा॒मम् । उषः॑ । दे॒वि॒ । दा॒शुषे॑ । मर्त्या॑य ॥उत् । ते । वयः । चित् । वसतेः । अपप्तन् । नरः । च । ये । पितुभाजः । विउष्टौ । अमा । सते । वहसि । भूरि । वामम् । उषः । देवि । दाशुषे । मर्त्याय ॥ut | te | vayaḥ | cit | vasateḥ | apaptan | naraḥ | ca | ye | pitu-bhājaḥ | vi-uṣṭau | amā | sate | vahasi | bhūri | vāmam | uṣaḥ | devi | dāśuṣe | martyāya