Sukta 6.64
वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया प्रथानाम् । अपेजते शूरो अस्तेव शत्रून्बाधते तमो अजिरो न वोळ्हा ॥
वह॑न्ति सीमरु॒णासो॒ रुश॑न्तो॒ गाव॑: सु॒भगा॑मुर्वि॒या प्र॑था॒नाम् । अपे॑जते॒ शूरो॒ अस्ते॑व॒ शत्रू॒न्बाध॑ते॒ तमो॑ अजि॒रो न वोळ्हा॑ ॥
váhanti sīm aruṇā́so rúśanto gā́vaḥ subhágām urviyā́ práthānām | ápējate śū́ro ásteva śátrūn bā́dhate támo ajiró ná voḷhā́ ||
The ruddy, shining Cows (rays) bear her onward—her, the fortunate one, spreading wide. Like a hero with the bow, she drives off the adversaries; she smites the darkness, swift as a charioteer who bears (the car).
वह॑न्ति । सी॒म् । अ॒रु॒णासः॑ । रुश॑न्तः । गावः॑ । सु॒ऽभगा॑म् । उ॒र्वि॒या । प्र॒थ॒नाम् । अप॑ । ई॒ज॒ते॒ । शूरः॑ । अस्ता॑ऽइव । शत्रू॑न् । बाध॑ते । तमः॑ । अ॒जि॒रः । न । वोळ्हा॑ ॥वहन्ति । सीम् । अरुणासः । रुशन्तः । गावः । सुभगाम् । उर्विया । प्रथनाम् । अप । ईजते । शूरः । अस्ताइव । शत्रून् । बाधते । तमः । अजिरः । न । वोळ्हा ॥vahanti | sīm | aruṇāsaḥ | ruśantaḥ | gāvaḥ | su-bhagām | urviyā | prathanām | apa | ījate | śūraḥ | astāiva | śatrūn | bādhate | tamaḥ | ajiraḥ | na | voḷhā