Sukta 6.64
भद्रा ददृक्ष उर्विया वि भास्युत्ते शोचिर्भानवो द्यामपप्तन् । आविर्वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः ॥
भ॒द्रा द॑दृक्ष उर्वि॒या वि भा॒स्युत्ते॑ शो॒चिर्भा॒नवो॒ द्याम॑पप्तन् । आ॒विर्वक्ष॑: कृणुषे शु॒म्भमा॒नोषो॑ देवि॒ रोच॑माना॒ महो॑भिः ॥
bhadrā́ dadr̥kṣe urviyā́ ví bhāsy útte śocír bhānávō dyā́m apaptan | āvír vákṣaḥ kr̥ṇuṣe śúmbhamānóṣo devi rócamānā máhobhiḥ ||
Auspicious Dawn, wide in thy vastness, thou art seen and thou shinest forth; thy flame and thy rays leap up and run to the heaven. Thou makest thy breast manifest, self-adorned; O goddess Uṣas, luminous, shining by thy great powers.
भ॒द्रा । द॒दृ॒क्षे॒ । उ॒र्वि॒या । वि । भा॒सि॒ । उत् । ते॒ । शो॒चिः । भा॒नवः॑ । द्याम् । अ॒प॒प्त॒न् । आ॒विः । वक्षः॑ । कृ॒णु॒षे॒ । शु॒म्भमा॑ना । उषः॑ । दे॒वि॒ । रोच॑माना । महः॑ऽभिः ॥भद्रा । ददृक्षे । उर्विया । वि । भासि । उत् । ते । शोचिः । भानवः । द्याम् । अपप्तन् । आविः । वक्षः । कृणुषे । शुम्भमाना । उषः । देवि । रोचमाना । महःभिः ॥bhadrā | dadṛkṣe | urviyā | vi | bhāsi | ut | te | śociḥ | bhānavaḥ | dyām | apaptan | āviḥ | vakṣaḥ | kṛṇuṣe | śumbhamānā | uṣaḥ | devi | rocamānā | mahaḥ-bhiḥ